|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.55. अध्यायः 055
Mahabharata - Karna Parva - Chapter Topics
अर्जुनेन संशप्तकानां वधः॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text
सञ्जय उवाच। 8-55-0x(4975)(57733)
प्रत्येत्याथ पुनर्जिष्णुर्जित्वा संशप्तकान्बभौ।
वक्रानुवक्रगमनादङ्गारक इव ग्रहः॥ 8-55-1(57734)
पार्थबाणहता राजन्नराश्वरथकुञ्जराः।
विचेलुर्बभ्रमुर्नेशुः पेतुर्मम्लुश्च भारत॥ 8-55-2(57735)
धुर्यान्धुर्येतरान्सूतान्ध्वजांश्चपासिसायकान्।
पाणीन्पाणिगताञ्शस्त्रान्बाहूनपि शिरांसि च॥ 8-55-3(57736)
भल्लैः क्षुरैरर्धचन्द्रैर्वत्सदन्तैश्च पाण्डवः।
चिच्छेदामित्रवीराणां समरे प्रतियुध्यताम्॥ 8-55-4(57737)
तं प्रवीरास्त्वदीयानां नर्दमानाऽभिदुद्रुवुः।
वासितार्थे युयुत्सन्तो वृषभा वृषभं यथा।
निपतन्त्यर्जुनं शूराः शतशोऽथ सहस्रशः॥ 8-55-5(57738)
तेषां तस्य च तद्युद्धमभवद्रोमहर्षणम्।
त्रैलोक्यविजये यादृग्दैत्यानां सह वज्रिणा॥ 8-55-6(57739)
तमविध्यत्त्रिभिर्बाणैर्दन्दशूकैरिवाहिभिः।
उग्रायुधस्य तस्याशु शिरः कायादपाहरत्॥ 8-55-7(57740)
तेऽर्जुनं सर्वतः क्रुद्धा नानाशस्त्रैरवीवृषन्।
मरुद्भिः प्रेरिता मेघा हिमवन्तमिवोष्णगे॥ 8-55-8(57741)
अस्त्रैरस्त्राणिं संवार्य द्विषतां सर्वतोऽर्जुनः।
सम्यगस्तैः शरैः सर्वानहितानहनद्बहून्॥ 8-55-9(57742)
छिन्नत्रिवेणुजङ्घेषान्हताश्वान्हतसारथीन्।
विस्रस्तहस्ततूणीरान्विचक्रथकेतनान्॥ 8-55-10(57743)
सञ्छिन्नरश्मियोक्त्राक्षान्व्यनुकर्षयुगान्रथान्।
विध्वस्तसर्वसन्नाहान्बाणैश्चक्रेऽर्जुनस्त्वरन्॥ 8-55-11(57744)
ते रथास्तत्र विध्वस्ताः परार्द्व्या भान्त्यनेकशः।
धनिनामिव वेश्मानि हतान्यग्न्यनिलाम्बुभिः॥ 8-55-12(57745)
द्विपाः सम्भिन्नमर्माणो वज्राशनिसमैः शरैः।
पेतुर्गिर्यग्रवेश्मानि वज्रवाताग्निभिर्यथा॥ 8-55-13(57746)
अनेकैश्च शिलाधौतैर्वज्रानलविषोपमैः।
शरैर्निजघ्निवान्पार्थो महेन्द्र इव दानवान्॥ 8-55-14(57747)
सारोहास्तुरगाः पेतुर्बहवोऽर्जुनताडिताः।
निर्जिह्वान्त्राः क्षितौ क्षीणा रुधिरार्द्राः सुदुर्दृशः॥ 8-55-15(57748)
नराश्वनागा नाराचैः संस्यूताः सव्यसाचिना।
बभ्रमुश्चस्खलुः पेतुर्नेदुर्मम्लुश्च मारिष॥ 8-55-16(57749)
महार्हवर्माभरणा नानारूपाम्बरायुधाः।
सरथाश्वद्विपा वीरा हताः पार्थेन शेरते॥ 8-55-17(57750)
निर्भयाः पुण्यकर्माणो विशिष्टाभिजनश्रुताः।
गताः शरीरैर्वसुधामूर्जितैः कर्मभिर्दिवम्॥ 8-55-18(57751)
अथार्जुनरथं वीरास्त्वदीयाः समभिद्रवन्।
नानाजनपदाध्यक्षाः सगणा जातमन्यवः॥ 8-55-19(57752)
उह्यमना रथाश्वेभैः पत्तयश्च जिघांसवः।
समभ्यधावन्नस्यन्तो विविधं क्षिप्रमायुधम्॥ 8-55-20(57753)
तदायुधमहावर्षं क्षिप्तं योधमहाम्बुदैः।
व्यधमन्निशितैर्बाणैः क्षिप्रमर्जुनमारुतः॥ 8-55-21(57754)
साश्वपत्तिद्विपरथं महाशस्त्रौघसम्प्लवम्॥
सहसा सन्तितीर्षन्तं पार्थं शस्त्रास्त्रसेतुना॥ 8-55-22(57755)
अथाब्रवीद्वासुदेवः पार्थ किं क्रीडसेऽनघ।
संशप्तकान्प्रमथ्यैनांस्ततः कर्णवधे त्वर॥ 8-55-23(57756)
तथेत्युक्त्वाऽर्जुनः कृष्णं शिष्टान्संशप्तकांस्तदा।
क्षपयिष्यंस्तदा बाणैर्दैत्यानिन्द्र इवावधीत्॥ 8-55-24(57757)
आददत्सन्दधन्नेषृन्दृष्टः कैश्चिद्रणेऽर्जुनः।
विमुञ्चन्वा शराञ्शीघ्रं दृश्यन्ते वै नरा हताः॥ 8-55-25(57758)
आश्चर्यमिति गोविन्दो ब्रुवन्नश्वानचोदयत्।
हंसांशुगौरास्ते सेनां हंसाः सर इवाविशन्॥ 8-55-26(57759)
ततः सङ्ग्रामभूमिं तां वर्तमाने जनक्षये।
अवेक्षमाणो गोविन्दः सव्यसाचिनमब्रवीत्॥ 8-55-27(57760)
एष पार्थ महारौद्रो वर्तते भरतक्षयः।
पृथिव्यां पार्थिवानां वै दुर्योधनकृते महान्॥ 8-55-28(57761)
पश्य भारत चापानि रुक्मपृष्ठानि धन्विनाम्।
हतानामपविद्धानि कलापानिषुधींस्तथा॥ 8-55-29(57762)
जातरूपमयैः पुङ्खैः शरांश्च नतपर्वणः।
तैलधौतांश्च नाराचान्निर्मुक्तानिव पन्नगान्॥ 8-55-30(57763)
आकीर्णांस्तोमरान्वाहांश्छत्रान्हेमविभूषितान्।
चर्माणि चापविद्धानि रुक्मपृष्ठानि भारत॥ 8-55-31(57764)
सुवर्णविकृतान्प्रासाञ्शक्तीः कनकभूषिताः।
जाम्बूनदमयैः पट्टैर्बद्धाश्च विपुला गदाः॥ 8-55-32(57765)
जातरूपमयीश्चर्ष्टीः पट्टसान्हेमभूषितान्।
दण्डैः कनकचित्रैश्च विप्रविद्धान्परश्वथान्॥ 8-55-33(57766)
परिघान्भिण्डिपालांश्च भुशुण्डीः कणपानपि।
अयस्कुन्तांश्च पतितान्मुसलानि गुरूणि च॥ 8-55-34(57767)
नानाविधानि शस्त्राणि प्रगृह्य जयगृद्धिनः।
जीवन्त इव दृश्यन्ते गतसत्वास्तरस्विनः॥ 8-55-35(57768)
गदाविमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकान्।
गजवाजिरथैः क्षुण्णान्पश्य योधान्सहस्रशः॥ 8-55-36(57769)
मनुष्यगजवाजीनां शरशक्त्यृष्टितोमरैः।
निस्त्रिंशैः पट्टसैः प्रासैर्नखरैर्लगुडैरपि॥ 8-55-37(57770)
शरीरैर्बहुघा छिन्नैः शोणितौघपरिप्लुतैः।
गतासुभिरमित्रघ्न संवृता रणभूमयः॥ 8-55-38(57771)
बाहुभिश्चन्दनादिग्धैः साङ्गदैः शुभभूषणैः।
सतलत्रैः सकेयूरैर्भाति भारत मेदिनी॥ 8-55-39(57772)
साङ्गुलित्रैर्भुजाग्रैश्च विप्रविद्वैरलङ्कृतैः।
हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम्॥ 8-55-40(57773)
बद्धचूडामणिवरैः शिरोभिश्च सकुण्डलैः।
`निकृत्तैर्वृषभाक्षाणां शरीरैश्चापि सङ्घशः॥ 8-55-41(57774)
गजवाजिमनुष्याणां शरशक्त्यृष्टितोमरैः।
कबन्धैः शोणितादिग्धैश्छिन्नगात्रशिरोधरैः।
भूर्भाति भरतश्रेष्ठ शान्ताग्निभिरिवाध्वरे'॥ 8-55-42(57775)
रथांश्च बहुधा भग्नान्हेमकिङ्किणिनः शुभान्।
अश्वांश्च बुहधा पश्य शोणितेन परिप्लुतान्॥ 8-55-43(57776)
अनुकर्षानुपासङ्गान्पताका विविधान्ध्वजान्।
योधानां च महाशङ्खान्पाण्डुरांश्च प्रकीर्णकान्।
निरस्तजिह्वान्मातङ्गाञ्शयानान्पर्वतोपमान्॥ 8-55-44(57777)
वैजयन्तीर्विचित्राश्च हतांश्च गजयोधिनः।
वारणानां परिस्तोमान्संयुक्तानेककम्बलान्॥ 8-55-45(57778)
विपाटितविचित्राश्च रूपचित्राः कुथास्तथा।
भिन्नाश्च बहुधा घण्टाः पतद्भिश्चूर्णिता गजैः॥ 8-55-46(57779)
वैदूर्यमणिदण्डांश्च पतितांश्चाङ्कुशान्भुवि।
अश्वानां च युगापीडान्रत्नचित्रानुरश्छदान्॥ 8-55-47(57780)
विद्धाः सादिध्वजाग्रेषु सुवर्णविकृताः कुथाः।
विचित्रान्मणिचित्रांश्च जातरूपपरिष्कृतान्॥ 8-55-48(57781)
अश्वास्तरपरिस्तोमान्राङ्कवान्पतितान्भुवि।
चूडामणीन्नरेन्द्राणां विचित्राः काञ्चनस्रजः।
छत्राणि चापविद्धानि चामरव्यजनानि च॥ 8-55-49(57782)
चन्द्रनक्षत्रभासैश्च वदनैश्चारुकुण्डलैः।
क्लृप्तश्मश्रुभिरत्यर्थं वीराणां समलङ्कृतैः।
वदनैः पश्य सञ्छन्नां महीं शोणितकर्दमाम्॥ 8-55-50(57783)
सजीवांश्च नरान्पश्य कूजमानान्समन्ततः।
उपास्यमानांश्च बहून्न्यस्तशस्त्रैश्च भूपते।
ज्ञातिभिश्च जलक्लिन्नान्रोदमानैर्मुहुर्मुहुः॥ 8-55-51(57784)
उत्क्रान्तानपरान्योधाञ्छादयित्वा तरस्विनः।
पुनर्युद्धाय गच्छन्ति जये लुब्धाः प्रमन्यवः॥ 8-55-52(57785)
अपरे तत्रतत्रैव परिधावन्ति मानवाः।
सन्निवृत्ताश्च ते शूरा दृष्टा चैतान्विचेतसः॥ 8-55-53(57786)
जलं त्यक्त्वा प्रधावन्ति क्रोशमानाः परस्परम्।
जलं पीत्वा मृतान्पश्य पिबतोऽन्यांश्च भारत॥ 8-55-54(57787)
परिष्वज्य प्रियानन्ये बान्धवान्बन्धुवत्सलाः।
विसंज्ञान्समरे योधांस्तत्रतत्र महारणे॥ 8-55-55(57788)
पश्यापरान्नरश्रेष्ठ सन्दष्टोष्ठपुटान्पुनः।
भृकुटीकुटिलैर्वक्त्रैः प्रेक्षमाणान्महारणम्॥ 8-55-56(57789)
एतत्तवैवानुरूपं कर्मार्जुन महाहवे।
दिवि वा देवराजस्य त्वया यत्कृतमाहवे॥ 8-55-57(57790)
सञ्जय उवाच। 8-55-58x(4976)
एवं तां दर्शयन्कृष्णो युद्धभूमिं किरीटिने।
गच्छन्नेवाशृणोच्छब्दं दुर्योधनबले महत्॥ 8-55-58(57791)
शङ्खदुन्दुभिनिर्घोषं भेरीपणवनिःस्वनम्।
रथाश्वनरनागानां पादशब्दांश्च दारुणान्॥ 8-55-59(57792)
प्रविश्य तद्बलं कृष्णस्तुरगैर्वातवेगितैः।
पाण्ड्येनाभ्यर्दितं सैन्यं त्वदीयं वीक्ष्य विस्मितः॥ 8-55-60(57793)
स हि नानाविधैर्बाणैरिष्वस्त्रप्रवरो युधि।
न्यहनद्द्विषतां पूगान्गतासूनन्तको यथा॥ 8-55-61(57794)
गजवाजिमनुष्याणां शरीराणि शितैः शरैः।
भित्त्वा प्रहरतां श्रेष्ठो विदेहासूनपातयत्॥ 8-55-62(57795)
शत्रुप्रवीरैरस्त्राणि नानाशस्त्राणि सायकैः।
छित्त्वा तानवधीच्छत्रून्पाण्ड्यः शक्र इवासुरान्॥ ॥ 8-55-63(57796)
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे पञ्चपञ्चाशोऽध्यायः॥ 55 ॥
Mahabharata - Karna Parva - Chapter Footnotes
8-55-3 धुर्यान् श्रेष्ठान्। धुर्यगतानिति पाठे वाहान्॥ 8-55-5 वासितार्थे स्त्रीनिमित्तम्॥ 8-55-7 दन्दशूकैः दंशनशीलैः। अपाहरदर्जुन इति शेषः॥ 8-55-8 उष्णगे ग्रीष्मे गते सति प्रावृषीत्यर्थः। उष्णे ग्रीध्मो गतोऽतीतो यत्र स उष्णगः कालविशेष इति विग्रहः॥ 8-55-9 अस्तैः क्षिप्तैः॥ 8-55-11 अनुकर्षः रथाधस्थं दारु॥ 8-55-15 निर्जिह्वान्त्राः निर्गताः जिह्वाः अन्त्राणि च येषां ते॥ 8-55-29 कलापान् अलङ्कारान्॥ 8-55-31 आकीर्णान् सर्वतोविक्षिप्तान्॥ 8-55-37 वाजीनां शरीरैरिति सम्बन्धः। दैर्ध्यमार्षम्॥ 8-55-55 पञ्चपञ्चाशोऽध्यायः॥ 55 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|